समष्ठिला

सुधाव्याख्या

समे तिष्ठति । 'मिथिलादयश्च' (उ० १.५७) इति साधुः । यद्वा सम्यग्ष्ठिला बीजं यस्याः । ‘गण्डीरो ना समष्ठिला' इति माला ॥


प्रक्रिया

धातुः - ष्ठा गतिनिवृत्तौ


स्था - धात्वादेः षः सः 6.1.64, निमित्तापाये नैमित्तिकस्याप्यपायः ।
सम् + स्था + इलच् - मिथिलादयश्च (१.५७) । उणादिसूत्रम् ।
सम् + स्था + इल - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
समष्ठिल - मिथिलादयश्च (१.५७) । उणादिसूत्रम् ।
समष्ठिल + टाप् - अजाद्यतष्टाप्‌ 4.1.4
समष्ठिल + आ - हलन्त्यम् 1.3.3, चुटू 1.3.7, तस्य लोपः 1.3.9
समष्ठिला + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
समष्ठिला + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
समष्ठिला - हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल् 6.1.68