अमरकोशः


श्लोकः

वृक्षादीनां फलं सस्यं वृन्तं प्रसवबन्धनम् । आमे फले शलाटुः स्याच्छुष्के वानमुभे त्रिषु ॥ १५ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 फल फलम् नपुंसकलिङ्गः फलति । अच् कृत् अकारान्तः
2 सस्य सस्यम् नपुंसकलिङ्गः सस्ति । उणादिः अकारान्तः
3 वृन्त वृन्तम् नपुंसकलिङ्गः वृणोति । क्त उणादिः अकारान्तः
4 प्रसवबन्धन प्रसवबन्धनम् नपुंसकलिङ्गः प्रसवस्य पुष्पफलपत्रस्य बन्धनम् ॥ तत्पुरुषः समासः अकारान्तः
5 शलाटु शलाटुः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः शलति । अच् कृत् उकारान्तः
6 वान वानम् पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः क्त कृत् अकारान्तः