वृन्तम्

सुधाव्याख्या

वृन्तमिति । वृणोति । ‘वृञ् वरणे (स्वा० उ० से०) । बाहुलकात् ‘अञ्जिघृसि-' (उ० ३.८९) इति क्तः, नुम् च । मुकुटस्तु ‘वृणोतेनुक्च' इति सूत्रं कल्पितवान् । –बाहुल्यान्न णत्वम् इति चिन्त्यम् । अनुस्वारं प्रति णत्वस्य (णत्वं प्रति परसवर्णस्य) असिद्धत्वात् । 'वृन्तं प्रसवबन्धे च घटीधाराकुचाग्रयोः ॥