फलम्

सुधाव्याख्या

फलति । ‘फल निष्पत्तौ (भ्वा० प० से०) । पचाद्यच् (३.१.१३४) । फलं निष्पन्नं सस्यशब्दवाच्यम् । ‘फलं हेतुकृते जातीफले फलकसस्ययोः । (त्रिफलायां च कक्कोले शस्त्राग्रे व्युष्टिलाभयोः)