प्रसवबन्धनम्

सुधाव्याख्या

प्रसूयते । ‘षु प्रसवे' (भ्वा० प० अ०) । ‘ऋदोरप्’ (३.३.५७) । बध्यतेऽनेन । ‘बन्ध बन्धने (क्र्या प० से०) । करणे ल्युट् (३.३.११७) । प्रसवस्य पुष्पफलपत्रस्य बन्धनम् ॥


प्रक्रिया

धातुः - षु प्रसवैश्वर्ययोः , बन्धँ बन्धने


षु प्रसवैश्वर्ययोः
सु - धात्वादेः षः सः 6.1.64
प्र + सु + अप् - ऋदोरप्‌ 3.3.57
प्र + सु + अ - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
प्र + सो + अ - सार्वधातुकार्धधातुकयोः 7.3.84
प्र + सव् + अ - एचोऽयवायावः 6.1.78
बन्धँ बन्धने
बन्ध् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
बन्ध् + ल्युट् - करणाधिकरणयोश्च 3.3.117
बन्ध् + यु - हलन्त्यम् 1.3.3, लशक्वतद्धिते 1.3.8, तस्य लोपः 1.3.9
बन्ध् + अन - युवोरनाकौ 7.1.1
प्रसव + ङस् + बन्धन + सु - षष्ठी 2.2.8
प्रसव + बन्धन - सुपो धातुप्रातिपदिकयोः 2.4.71
प्रसवबन्धन + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
प्रसवबन्धन + अम् - अतोऽम् 7.1.24
प्रसवबन्धनम् - अमि पूर्वः 6.1.107