शलाटुः

सुधाव्याख्या

आम इति । शलति । ‘शल चलनसंवरणयो:' (भ्वा० प० से०) । पचाद्यच् (३.१.१३४) । अटति । ‘अट गतौ' (भ्वा० प० से०) । मृगय्वादित्वात् (उ० १.३७) कुः । शलक्षासावटुश्च । तालव्यादिः । ‘शटीशटितं शलाटुः' इत्यूष्मभेदात् ॥


प्रक्रिया

धातुः - शलँ चलनसंवरणयोः , अटँ गतौ


शलँ चलनसंवरणयोः
शल् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
शल् + अच् - नन्दिग्रहिपचादिभ्यो ल्युणिन्यचः 3.1.134
शल् + अ - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
अटँ गतौ
अट् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
अट् + कु - मृगय्वादयश्च (१.३७) । उणादिसूत्रम् ।
अट् + उ - लशक्वतद्धिते 1.3.8, तस्य लोपः 1.3.9
शल + सु + अटु + सु - तत्पुरुषः समानाधिकरणः कर्मधारयः 1.2.42
शल + अटु - सुपो धातुप्रातिपदिकयोः 2.4.71
शलाटु - अकः सवर्णे दीर्घः 6.1.101
शलाटु + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
शलाटु + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
शलाटु + रु - ससजुषो रुः 8.2.66
शलाटु + र् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
शलाटुः - खरवसानयोर्विसर्जनीयः 8.3.15