वानम्

सुधाव्याख्या

शुष्क इति । ‘फले' इत्येव ॥ वायति स्म । ‘पै ओवै शोषणे' (भ्वा० प० अ०) । ‘गत्यर्थाकर्मक-' (३.४.७२) इति कर्तरि क्तः । ‘ओदितश्च' (८.२.४५) इति नत्वम् । वन्यते । ‘वनु याचने' (त० आ० से०) । घञ् (३.३.१८) वा । ‘वानं शुष्कफले शुष्के सीवने गमने कटे । जलसंप्लुतवातोर्मिसुरङ्गासौरभेषु च' इति हैमः ॥