सस्यम्

सुधाव्याख्या

सस्ति । ‘पस घस्ति स्वप्ने’ (अ० प० से०) । ‘माछाससिसुभ्यो यः (उ० ४.१०९) ॥ तालव्यादिपाठे तु ‘शसु हिंसायाम् (भ्वा० प० से०) । शस्यते । ‘तकिशसिचति-' (वा० ३.१.९७) इति यत् । -‘क्यपि' इति मुकुटोक्तिश्चिन्त्या । ‘अचो यत्' (३.१.९७) इत्यत्र हरीतक्यादीनामुपसंख्यानात् । षसेर्द्विदन्त्यस्य ‘तकि-' (वा० ३.१.९७) इत्यत्राग्रहणाच्च ॥