अमरकोशः


श्लोकः

शंपाशतह्रदाह्रादिन्यैरावत्यः क्षणप्रभा । तडित्सौदामनीविद्युच्चञ्चला चपला अपि ॥ ९ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 शम्पा शंपा स्त्रीलिङ्गः भयंकरत्वाच्छं सुखं पिबति । तत्पुरुषः समासः आकारान्तः
2 शतह्रदा शतह्रदा स्त्रीलिङ्गः शतं ह्रादा अव्यक्ताः शब्दा यस्याः । बहुव्रीहिः समासः आकारान्तः
3 ह्रादिनी ह्रादिनी स्त्रीलिङ्गः ह्रादते । णिनि कृत् ईकारान्तः
4 ऐरावती एरावती स्त्रीलिङ्गः इरा आपः सन्त्यस्य = इरावान् मेघः । तस्येयम् । अण् तद्धितः ईकारान्तः
5 क्षणप्रभा क्षणप्रभा स्त्रीलिङ्गः क्षणं प्रभास्याः । बहुव्रीहिः समासः आकारान्तः
6 तडित् तडित् स्त्रीलिङ्गः ताडयति । इति उणादिः तकारान्तः
7 सौदामनी सौदामनी स्त्रीलिङ्गः अण् तद्धितः ईकारान्तः
8 विद्युत् विद्युत् स्त्रीलिङ्गः विशेषेण द्योतते । क्विप् कृत् तकारान्तः
9 चञ्चला चञ्चला स्त्रीलिङ्गः चञ्चं लाति । तत्पुरुषः समासः आकारान्तः
10 चपला चपला स्त्रीलिङ्गः चोपति । कलच् उणादिः आकारान्तः