एरावती

सुधाव्याख्या

इरा आपः सन्त्यस्य = इरावान् मेघः । तस्येयम् । तस्येदम्’ (४.३.१२०) इत्यण् । ऐरावतेनैकदिक् । 'तेनैकदिक् (४.३.११२) इत्यण् इति वा ।


प्रक्रिया

इरा + सु + मतुप् - तदस्यास्त्यस्मिन्निति मतुप्‌ 5.2.94
इरा + मत् - हलन्त्यम् 1.3.3, उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
इरा + वत् - मादुपधायाश्च मतोर्वोऽयवादिभ्यः 8.2.9
इरावत् + ङस् + अण् - तस्येदम् 4.3.120
इरावत् + अण् - सुपो धातुप्रातिपदिकयोः 2.4.71
इरावत् + अ - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
ऐरावत - तद्धितेष्वचामादेः 7.2.117
ऐरावत + ङीप् - टिड्ढाणञ्द्वयसज्दघ्नञ्मात्रच्तयप्ठक्ठञ्कञ्क्वरपः 4.1.15
ऐरावत् + ङीप् - यस्येति च 6.4.148
ऐरावत् + ई - हलन्त्यम् 1.3.3, लशक्वतद्धिते 1.3.8, तस्य लोपः 1.3.9
ऐरावती + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
ऐरावती + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
ऐरावती - हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल् 6.1.68