तडित्

सुधाव्याख्या

ताडयति । 'तड आघाते’ (चु० प० से०) । ‘ताडेर्णिलुक्च (उ० १.१८) इतीतिः । डलयोरेकत्वात् ‘तलित्’ अपि । ‘दूरेचित्सं तलिदिवातिरोचसे' इति मन्त्रः ।