चञ्चला

सुधाव्याख्या

‘चञ्चु गतौ' (भ्वा० प० से०) । घञ् (३.३.१८) । चञ्चं लाति । कः (३.२.३) । 'चञ्चला तु तडिल्लक्ष्म्योश्चञ्चलश्चपलेऽनिले' ।


प्रक्रिया

धातुः - चन्चुँ गतौ


चन्चुँ गतौ
चञ्च् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
चञ्च् + घञ् - भावे 3.3.18
चञ्च् + अ - हलन्त्यम् 1.3.3, लशक्वतद्धिते 1.3.8, तस्य लोपः 1.3.9
ला आदाने
चञ्च + अम् + ला + क - उपपदमतिङ् 2.2.19, आतोऽनुपसर्गे कः 3.2.3
चञ्च + ला + क - सुपो धातुप्रातिपदिकयोः 2.4.71
चञ्च + ल् + क - आतो लोप इटि च 6.4.64
चञ्च + ल् + अ - लशक्वतद्धिते 1.3.8, तस्य लोपः 1.3.9
चञ्चल + टाप् - अजाद्यतष्टाप्‌ 4.1.4
चञ्चल + आ - हलन्त्यम् 1.3.3, चुटू 1.3.7, तस्य लोपः 1.3.9
चञ्चला - अकः सवर्णे दीर्घः 6.1.101
चञ्चला + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
चञ्चला + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
चञ्चला - हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल् 6.1.68