विद्युत्

सुधाव्याख्या

विशेषेण द्योतते । ‘द्युत दीप्तौ’ (भ्वा० आ० से०) । ‘भ्राजभास-’ (३.२.१७७) इति क्विप् । (विद्युत्तडिति संध्यायां स्त्रियां त्रिषु तु निष्प्रभे') ।