शतह्रदा

सुधाव्याख्या

शतं ह्रादा अव्यक्ताः शब्दा यस्याः । पृषोदरादित्वात् (६.३.१०९) ह्रस्वः । शतं ह्रदा अर्चीषि, अगाधजलाशया वा सन्त्यस्या इति वा । अच् (५.२.१२७) । (शतह्रदा स्त्रियां वज्रे सौदामिन्यां च कीर्तिता’) ।