अमरकोशः


श्लोकः

किरणोस्रमयूखांशुगभस्तिघृणिरश्मयः । भानुः करो मरीचि: स्त्रीपुंसयोर्दीधितिः स्त्रियाम् ॥ ३३ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 किरण किरणः पुंलिङ्गः कीर्यते । क्यु उणादिः अकारान्तः
2 उस्त्र उस्रः पुंलिङ्गः वसन्ति रसा अस्मिन् । रक् उणादिः अकारान्तः
3 मयूख मयूखः पुंलिङ्गः मिमीते । उख उणादिः अकारान्तः
4 अंशु अंशुः पुंलिङ्गः अंशयति । कु उणादिः उकारान्तः
5 गभस्ति गभस्तिः पुंलिङ्गः गम्यते । गो ज्ञेयवर्गः । तं बभस्ति दीपयति । क्तिच् कृत् इकारान्तः
6 घृणि घृणिः पुंलिङ्गः जिघर्ति । नि उणादिः इकारान्तः
7 धृष्णिः धृष्णिः पुंलिङ्गः धृष्णोति । नि बाहुलकात्
8 भानु भानुः पुंलिङ्गः भाति । नु उणादिः उकारान्तः
9 कर करः पुंलिङ्गः कीर्यते । अप् कृत् अकारान्तः
10 मरीचि मरीचिः पुंलिङ्गः, स्त्रीलिङ्गः म्रियते तमोऽस्मिन् । ईचि उणादिः इकारान्तः
11 दीधिति दीधितिः स्त्रीलिङ्गः दीधीते दीप्यते । क्तिच् कृत् इकारान्तः