उस्रः

सुधाव्याख्या

वसन्ति रसा अस्मिन् । 'वस निवासे (भ्वा० प० अ०) ‘स्फायितञ्चि (उ० २.१३) इति रक् । यजादित्वात् (६.१.१५) संप्रसारणम् । न रपर-' (८.३.११०) इति न षत्वम् । ('उस्त्रो वृषे च किरणेऽप्युस्त्रार्जुन्युपचित्रयोः) ।


प्रक्रिया

धातुः - वसँ निवासे


वस् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
वस् + रक् - स्फायितञ्चिवञ्चिशकिक्षिपिक्षुदिसृपितृपिदृपिवन्द्युन्दिश्वितिवृत्यजिनीपदिमदिमुदिखिदिछिदि-भिदिमन्दिचन्दिदहिदसिदम्भिवसिवाशिशीङ्हसिसिधिशुभिभ्यो रक् (२.१३) । उणादिसूत्रम् ।
वस् + र - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
उस् + र - वचिस्वपियजादीनां किति 6.1.15
उस्र + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
उस्र + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
उस्र + रु - ससजुषो रुः 8.2.66
उस्र + र् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
उस्रः - खरवसानयोर्विसर्जनीयः 8.3.15