धृष्णिः

सुधाव्याख्या

धृष्णोति । ‘ञिधृषा प्रागल्भ्ये’ (स्वा० प० से०) । वृषिधृषिभ्यां कित्’ इति निः किच्च-इति मुकुट: । तन्न । तादृशसूत्राभावात् । अतो बाहुलकान्निः, गुणाभावश्च ॥ वृष्णि: इति पाठान्तरम् । ‘वृषु सेचने’ (भ्वा० प० से०) । ‘सुवृषिभ्यां कित्' (उ० ४.४९) इति निः पिच्च ॥ पृश्निः इत्येके पेटुः । ‘स्पृश संस्पर्शने' (तु० प० अ०) । अस्य सलोपो गुणाभावश्च ‘घृणिपृश्नि-' (उ० ४.५२) इति निपातितः । पर्शति । 'पृशु सेचने’ (भ्वा० प० से०) वा ।