गभस्तिः

सुधाव्याख्या

गम्यते । अन्यत्रापि (वा० ३.२.४८) इति ड: । गो ज्ञेयवर्गः । तं बभस्ति दीपयति । गभस्ति: । ‘भस भर्त्सनदीप्त्योः’ (जु० प० से०) । जुहोत्यादिः । क्तिच्क्तौ च-’ (३.३.१७४) इति क्तिच् । एवं च-गगने भसति दीप्यते । ‘भस भर्त्सनप्तयोः । वसेस्तिः (उ० ४.१८०) इति बाहुलकात्तिप्रत्ययः । पृषोदरादित्वात् (६.३.१०९) गनभागलोपः इति मुकुटकृतं क्लिष्टकल्पनमनुपादेयम् । भसतीति विगृह्योक्तधातोरुपन्यसनं प्रामादिकम् । (‘गभस्ति: किरणे सूर्ये ना स्वाहायां तु योषिति') ।।


प्रक्रिया

धातुः - गमॢँ गतौ , भसँ भर्त्सनदीप्त्योः


गमॢँ गतौ
गम् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
गम् + ड - अन्तात्यन्ताध्वदूरपारसर्वानन्तेषु डः 3.2.48
गम् + अ - हलन्त्यम् 1.3.3, चुटू 1.3.7, तस्य लोपः 1.3.9
ग् + अ - टेः 6.4.143
भसँ भर्त्सनदीप्त्योः
भस् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
ग + अम् + भस् + क्तिच् - क्तिच्क्तौ च संज्ञायाम् 3.3.174, उपपदमतिङ् 2.2.19
भस् + ति - हलन्त्यम् 1.3.3, लशक्वतद्धिते 1.3.8, तस्य लोपः 1.3.9
गभस्ति + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
गभस्ति + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
गभस्ति + रु - ससजुषो रुः 8.2.66
गभस्ति + र् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
गभस्तिः - खरवसानयोर्विसर्जनीयः 8.3.15