दीधितिः

सुधाव्याख्या

दीधीते दीप्यते । दीधीङ् दीप्तिदेवनयोः’ (अ० आ० से०) । क्तिच् (३.३.१७४) । ‘तितुत्र-' (७.२.९) इतीण्निषेधस्तु न । 'अग्रहादीनाम्' इति वार्तिकात् । यीवर्णयो- (७.४.५३) इतीकारलोपः । अयं स्त्रियामेव । दीधितिः स्त्रियाम्' इति लिङ्गानुशासनात् । काकाक्षिगोलकन्यायेन ‘दीधितिः’ इत्यत्र स्त्रियामिति सम्बध्यते । उत्तरत्रापि ।