घृणिः

सुधाव्याख्या

जिघर्ति । ‘घृ क्षरणदीप्त्योः’ (जु० प० अ०) । जुहोत्यादिः । छान्दसस्यापि भाषायां प्रयोगः इति प्राञ्चः । वस्तुतस्तु घरति । ‘घृ सेचने’ (भ्वा० प० अ०) भ्वादिः । घृणिपृश्नि-' (उ० ४.५२) इति निप्रत्ययो गुणाभावश्च निपातितः । (‘घृणिः पुनः अंशुज्वालातरङ्गेषु)॥


प्रक्रिया

धातुः - घृ क्षरणदीप्त्योः


घृ + नि - घृणिपृश्निपार्ष्णिचूर्णिभूर्णि (४.५२) । उणादिसूत्रम् ।
घृ + णि - ऋवर्णात् नस्य णत्वं वाच्यम् (8.4.1) । वार्तिकम् ।
घृणि + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
घृणि + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
घृणि + रु - ससजुषो रुः 8.2.66
घृणि + र् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
घृणिः - खरवसानयोर्विसर्जनीयः 8.3.15