मयूखः

सुधाव्याख्या

मिमीते । माङ ऊखो मय च' (उ० ५.२५) इत्यूखप्रत्ययो मयादेशश्च । एतेन मापयन् प्रमापयन् गगनमोखति गच्छति । “मा माने (अ० प० अ०) । उखउखि-' (भ्वा० प० से०) इति दण्डकोक्तो गत्यर्थ: । अच् (३.१.१३४) । पृषोदरादिः (६.३. १०९) इति मुकुटः परास्तः । धातुसमुदायात्प्रत्ययानामविधानात् । पृषोदरादित्वाश्रयणस्य निर्मूलत्वाच्च । (‘मयूखः किरणेऽपि च । ज्वालायामपि शोभायाम्) ।