अमरकोशः


श्लोकः

करतोया सदानीरा बाहुदा सैतवाहिनी । शतद्रुस्तु शुतुद्रिः स्याद्विपाशा तु विषाट् स्त्रियाम् ॥ ३३ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 करतोया करतोया स्त्रीलिङ्गः करस्य तोयम् । अच् तद्धितः आकारान्तः
2 सदानीरा सदानीरा स्त्रीलिङ्गः सदा नीरं यस्याः । बहुव्रीहिः समासः आकारान्तः
3 बाहुदा बाहुदा स्त्रीलिङ्गः बाहुं छिन्नं दत्तवती लिखतस्य ऋषेः । कः कृत् आकारान्तः
4 सैतवाहिनी सैतवाहिनी स्त्रीलिङ्गः सितानि वाहनानि यस्यार्जुनस्य । तस्येयम् । बहुव्रीहिः समासः ईकारान्तः
5 शतद्रु शतद्रुः स्त्रीलिङ्गः शतधा द्रवति । उः उणादिः उकारान्तः
6 शुतुद्रि शुतुद्रिः स्त्रीलिङ्गः शु पूजितं तुदति । इन् उणादिः इकारान्तः
7 विपाशा विपाशा स्त्रीलिङ्गः पाशं विमोचयति । अच् कृत् आकारान्तः
8 विपाट् विपाट् स्त्रीलिङ्गः क्विप् कृत् टकारान्तः