सदानीरा

सुधाव्याख्या

सदा नीरं यस्याः । ‘प्रथमं कर्कटे देवी त्र्यहं गङ्गा रजस्वला । सर्वा रक्तवहा नद्यः करतोयाम्बुवाहिनी’ इति स्मृतेः ॥ द्वे गौरीविवाहे कन्यादानोदकाज्जातनद्या: ।