विपाट्/विपाड्

सुधाव्याख्या

तस्मादेव 'क्विप् च’ (३.२.७६) इति क्विपि विपाट् । द्वे पापमोचिन्याः ।


प्रक्रिया

धातुः - पशँ बन्धने


पश् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
वि + पश् + णिच् - सत्यापपाशरूपवीणातूलश्लोकसेनालोमत्वचवर्मवर्णचूर्णचुरादिभ्यो णिच् 3.1.25
वि + पश् + इ - हलन्त्यम् 1.3.3, चुटू 1.3.7, तस्य लोपः 1.3.9
वि + पाश् + इ - अत उपधायाः 7.2.116
वि + पाश् + इ + क्विप् - क्विप् च 3.2.76
वि + पाश् + क्विप् - णेरनिटि 6.4.51
वि + पाश् + व् - हलन्त्यम् 1.3.3, चुटू 1.3.7, तस्य लोपः 1.3.9
विपाश् - वेरपृक्तस्य 6.1.67
विपाष् - व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः 8.2.36
विपाड् - झलां जशोऽन्ते 8.2.39
विपाड् + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
विपाड् + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
विपाड् - हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल् 6.1.68
विपाट्/विपाड् - वाऽवसाने 8.4.56