बाहुदा

सुधाव्याख्या

बाहुदेति । बाहुं छिन्नं दत्तवती लिखतस्य ऋषेः । ‘डुदाञ्' (जु० उ० अ०) । ‘आतोऽनुप-’ (३.२.३) इति कः । यद्वा बहुदस्य कार्तवीर्यस्येयम् । तेनावतारितत्वात् । ’तस्येदम्' (४.३.१२०) इत्यण् । अजादित्वात् (४.१.४) टाप् ॥