शतद्रुः

सुधाव्याख्या

शतेति । शतधा द्रवति । 'द्रु गतौ (भ्वा० प० अ०) । ‘हरिमितयोर्द्रुवः (उ० १.३४) । ‘शते च' (उ० १.३५) इत्युर्डित् ।


प्रक्रिया

धातुः - द्रु गतौ


शत + जस् + द्रु + कु – हरिमितयोर्द्रुवः (१.३४) । उणादिसूत्रम् । (कुः, स च डित् ।), उपपदमतिङ् 2.2.19
शत + द्रु + कु सुपो धातुप्रातिपदिकयोः 2.4.71
शत + द्रु + उ - लशक्वतद्धिते 1.3.8, तस्य लोपः 1.3.9
शत + द्र् + उ - टेः 6.4.143, डित्वसामर्थ्यादभस्यापि टेर्लोपः।
शतद्रु + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
शतद्रु + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
शतद्रु + रु - ससजुषो रुः 8.2.66
शतद्रु + र् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
शतद्रुः - खरवसानयोर्विसर्जनीयः 8.3.15