विपाशा

सुधाव्याख्या

विपाशेति । पाशं विमोचयति । 'सत्यापपाश-' (३.१.२५) इत्यादिना ‘पाशान्मोचने’ इति णिच् । पचाद्यच् (३.१.१३४) ॥


प्रक्रिया

धातुः - पशँ बन्धने


पश् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
वि + पश् + णिच् - सत्यापपाशरूपवीणातूलश्लोकसेनालोमत्वचवर्मवर्णचूर्णचुरादिभ्यो णिच् 3.1.25
वि + पश् + इ - हलन्त्यम् 1.3.3, चुटू 1.3.7, तस्य लोपः 1.3.9
वि + पाश् + इ - अत उपधायाः 7.2.116
वि + पाश् + इ + अच् - नन्दिग्रहिपचादिभ्यो ल्युणिन्यचः 3.1.134
वि + पाश + अच् - णेरनिटि 6.4.51
वि + पाश + अ - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
वि + पाश् + अ - यस्येति च 6.4.148
विपाश + टाप् - अजाद्यतष्टाप्‌ 4.1.4
विपाश + आ - हलन्त्यम् 1.3.3, चुटू 1.3.7, तस्य लोपः 1.3.9
विपाशा - अकः सवर्णे दीर्घः 6.1.101
विपाशा + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
विपाशा + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
विपाशा - हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल् 6.1.68