शुतुद्रिः

सुधाव्याख्या

शु पूजितं तुदति । ‘तुद व्यथने (तु० उ० अ०) । ‘इगुपधात्कित्' (उ० ४.१२०) इतीन् । बाहुलकाद्रुक् । इमं मे गङ्गे यमुने सरस्वति शुतुद्रि’ इति हि श्रुतिः । यत्तु मुकुटः - शतद्रुरेव पृषोदरादित्वात् (६.३.१०९), आदि-वर्णविकारे शतद्रुः इति स्वामी, शितं तीक्ष्णं द्रुता शितद्रः इति कौमुदी, इत्याह । तन्न । ‘एतदबुध्यमानाः शितद्रुः सितद्रुर्वेत्याहुः’ (स्वामिग्रन्थेन) इत्यनेन तेनास्यार्थस्य दूषितत्वात् । व्युत्पत्त्यन्तरस्य कृतत्वाच्च ॥ (२) द्वे शतद्रवाः ।


प्रक्रिया