अमरकोशः


श्लोकः

आपः स्त्री भूम्नि वार्वारि सलिलं कमलं जलम् । पयः कीलालममृतं जीवनं भुवनं वनम् ॥ ३ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 अप्(आप) आपः स्त्रीलिङ्गः आप्नुवन्ति, आप्यन्ते वा । क्विब् उणादिः
2 वार् वाः नपुंसकलिङ्गः वारयति । क्विप् कृत् रेफान्तः
3 वारि वारि नपुंसकलिङ्गः वारिर्घट्यां सरस्वत्यां । इञ् उणादिः इकारान्तः
4 सलिल सलिलम् नपुंसकलिङ्गः सलति । इलच् उणादिः अकारान्तः
5 कमल कमलम् नपुंसकलिङ्गः कम्यते । कलच् उणादिः अकारान्तः
6 जल जलम् नपुंसकलिङ्गः जलति । अच् कृत् अकारान्तः
7 पयस् पयः नपुंसकलिङ्गः पयते पीयते, वा । असुन् उणादिः सकारान्तः
8 कीलाल कीलालम् नपुंसकलिङ्गः कीलां ज्वालामलति वारयति । अण् कृत् अकारान्तः
9 अमृत अमृतम् नपुंसकलिङ्गः न मृतं मरणमस्त्यस्मिन् । बहुव्रीहिः समासः अकारान्तः
10 जीवन जीवनम् नपुंसकलिङ्गः जीव्यतेऽनेन । ल्युट् कृत् अकारान्तः
11 भुवन भुवनम् नपुंसकलिङ्गः भूयते । ल्युट् कृत् अकारान्तः
12 वन वनम् नपुंसकलिङ्गः वन्यते सम्भज्यते सेव्यते वा । घञ् कृत् अकारान्तः