भुवनम्

सुधाव्याख्या

भूयते । ‘भू प्राप्तौ’ (चु० आ० से०) । ‘भूसूधूभ्रस्जिभ्यश्छन्दसि ' (उ० २.८०) इति क्युन् । यद्वा भवन्त्युत्पद्यन्तेऽनेन । करणे ल्युट् (३.३.११६) । संज्ञापूर्वकत्वाद्गुणाभावः । ‘भुवनं विष्टपेऽपि स्यात्सलिले गगने जले’