कमलम्

सुधाव्याख्या

कम्यते । 'कमु कान्तौ (भ्वा० आ० से०) । वृषादित्वात् (उ० १.१०६) कलच् । ‘कमला श्रीर्जलं पद्मं कमलं कमलो मृगः’ इति धरणिदर्शनात् 'कमलम्' इत्येकं नाम । 'कमलं क्लोम्नि भेषजे । पङ्कजे सलिले ताम्रे कमलस्तु मृगान्तरे । कमला श्रीवरनार्योः इति हेमचन्द्रः