वारि

सुधाव्याख्या

'वसिवपि-'(उ० ४.१२५) इतीञि वारि च । ('वारि ह्रीबेरनीरयोः । वारिर्घट्यां सरस्वत्यां । गजबन्धनभुव्यपि')


प्रक्रिया

धातुः - वृञ् वरणे


वृ - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
वृ + णिच् - हेतुमति च 3.1.26
वृ + इ - हलन्त्यम् 1.3.3, चुटू 1.3.7, तस्य लोपः 1.3.9
वार् + इ - अचो ञ्णिति 7.2.115
वार् + इ + इञ् - वसिवपियजिराजिव्रजिसदिहनिनाशिवाशिवारिभ्य इञ् (४.१२५) । उणादिसूत्रम् ।
वार् + इञ् - णेरनिटि 6.4.51
वार् + इ - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
वारि + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
वारि - स्वमोर्नपुंसकात्‌ 7.1.23