सलिलम्

सुधाव्याख्या

सलति । ‘षल गतौ’ (भ्वा० प० से०) । ‘सलिकलि-' (उ० १.५४) इतीलच् । रलयोरेकत्वम् । सरिलं सलिरं सलिलम्’ इति वाचस्पतिः ।


प्रक्रिया

धातुः - षलँ गतौ


षल् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
सल् - धात्वादेः षः सः 6.1.64
सल् + इलच् - सलिकल्यनिमहिभडिभण्डिशण्डिपिण्डितुण्डिकुकिभूभ्य इलच् (१.५४) । उणादिसूत्रम् ।
सल् + इल - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
सलिल + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
सलिल + अम् - अतोऽम् 7.1.24
सलिलम् - अमि पूर्वः 6.1.107