वनम्

सुधाव्याख्या

वन्यते सम्भज्यते सेव्यते वा । ‘वन सम्भक्तौ (भ्वा० प० से०) । ‘वनु याचने' (तु० आ० से०) वा । कर्मणि घञ् (३).३.१९) । संज्ञापूर्वकत्वाद्वृद्ध्यभावः । यतु भुवनवद्बाहुलकात् क्युनि अनुदात्तोपदेश-' (६.४.३७) इत्यादिना नलोपे वनम्,–इत्युज्ज्वलदत्तः इति मुकुटः । तन्न । अनुदात्तोपदेश- (६.४.३७) इत्यनुनासिकलोपस्य क्ङिति झलि विधानात्क्युनि तदप्रसङ्गात् । अन्यथा वन्यत इत्यादावपि प्रसङ्गात् । ‘वनं प्रस्रवणे गेहे प्रवासेऽम्भसि कानने इति हैम: ॥