आपः

सुधाव्याख्या

आप इति । आप्नुवन्ति, आप्यन्ते वा । 'आप्लृ व्याप्तौ (स्वा० प० अ०) । आप्नोतेर्ह्रस्वश्च' (उ० २.५८) इति क्विब् हस्वत्वं च । असुनि (उ० ४.२०८) आपः । सान्तं क्लीबं च । 'कबन्धमुदकमापोनीरवार्वारिनारम् । क्लीबमपि' । इति संसारावर्तात् ॥