अमरकोशः


श्लोकः

कालो दण्डधरः श्राद्धदेवो वैवस्वतोऽन्तकः । राक्षसः कौणपः क्रव्यात्क्रव्यादोऽस्रप आशरः ॥ ५९ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 काल कालः पुंलिङ्गः कालयति । णिच् कृत् अकारान्तः
2 दण्डधर दण्डधरः पुंलिङ्गः दण्डस्य धरः । तत्पुरुषः समासः अकारान्तः
3 श्राद्धदेव श्राद्धदेवः पुंलिङ्गः श्राद्धस्य देवः । तत्पुरुषः समासः अकारान्तः
4 वैवस्वत वैवस्वतः पुंलिङ्गः विवस्वतोऽपत्यम् । अण् तद्धितः अकारान्तः
5 अन्तक अन्तकः पुंलिङ्गः अन्तं करोति = अन्तयति । ण्वुल् कृत् अकारान्तः
6 राक्षस राक्षसः पुंलिङ्गः रक्षत्यस्मात् । अण् तद्धितः अकारान्तः
7 कौणप कौणपः पुंलिङ्गः कुणपं शवं भक्षयितुं शीलमस्य । अण् तद्धितः अकारान्तः
8 क्रव्याद क्रव्याद् पुंलिङ्गः क्रव्यमाममांसमत्ति । तत्पुरुषः समासः अकारान्तः
9 क्रव्याद क्रव्यादः पुंलिङ्गः कृत्तं छिन्नं तदेव पुनर्विशेषतः कृतं पक्वं च भुङ्क्ते इति क्रव्यादः । तत्पुरुषः समासः अकारान्तः
10 अस्रप अस्रपः पुंलिङ्गः अस्रं रक्तं पिबति । तत्पुरुषः समासः अकारान्तः
11 आशर आशरः पुंलिङ्गः आशृणाति । अच् कृत् अकारान्तः