क्रव्यात्

सुधाव्याख्या

क्रव्यम्मांसमत्ति । ‘क्रव्ये च' (३.२.६९) इति विट् । ‘अदोऽनन्ने' (३.२.६८) इत्येव सिद्धेऽण् (३.२.१) बाधनार्थमिदम् । तेनाममांसभक्षके 'क्रव्यादः’ इति न भवत्येव । ('क्रव्यन्मांसा शिरक्षसोः) ।