कालः

सुधाव्याख्या

कलयत्यायुः । ‘कल संख्याने’ (चु० उ० से०) । पचाद्यजन्तात् (३.१.१३४) प्रज्ञाद्यण् (५.४.३८) इति मुकुट: तन्न । कलेर्मित्वाभावात् । प्रज्ञाद्यणि रूपद्वयप्रसङ्गाच्च । एतेन स्वाम्यपि परास्तः । तस्मात् कालयति' इति विग्रह उचितः । कालवर्णत्वाद्वा । (‘कालो भृत्यौ महाकाले समये यमकृष्णयो’) ।