राक्षसः

सुधाव्याख्या

राक्षस इत्यादि । रक्षत्यस्मात् । 'रक्ष पालने’ (भ्वा० प० से०) । असुन् (उ० ४.१८९) । प्रज्ञाद्यणि (५.४.३८) राक्षसः । ‘स्वार्थिकाः प्रकृतितो लिङ्गवचनान्यतिवर्तन्तेऽपि’ (प० ५.३.६८) इति पुंस्त्वम् । (राक्षसो यातुधाने स्याच्चण्डायां राक्षसी स्मृता) ।