आशरः

सुधाव्याख्या

आशृणाति । 'शॄ हिंसायाम्' (क्र्या प० से०) । पचाद्यच् (३.१.१३४) । 'आशिरः इति पाठे ‘अशेर्णिच्च' (उ० १.५२) इति किरच् । 'आशिरो धनुषः शङ्कुः क्रव्यादोऽस्रप आशरः’ इति संसारावर्तः । ('आशिरोऽर्के राक्षसेऽग्नौ') ।