अस्रपः

सुधाव्याख्या

अस्रं रक्तं पिबति । आतोऽनुप-’ (३.२.३) इति कः । न तु टक् ३.२.८ पिबतेः सुराशीध्वोः (वा० ३.२.८) इति वचनात् । दन्त्य सवान् (अस्रपा तु जलौकायां डाकिन्यां राक्षसे तु ना')न श्रपयति क्रव्यात्वात् अश्रपः पचाद्यच् (३.१.१३४) तालव्यशवान् ।