अमरकोशः


श्लोकः

विभूतिर्भूतिरैश्वर्यमणिमादिकमष्टधा । उमा कात्यायनी गौरी काली हैमवतीश्वरी ॥ ३६ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 विभूति विभूतिः स्त्रीलिङ्गः क्तिन् कृत् इकारान्तः
2 भूति भूतिः स्त्रीलिङ्गः भवनं भूतिः । क्तिन् कृत् इकारान्तः
3 ऐश्वर्य ऐश्वर्यम् नपुंसकलिङ्गः ईश्वरस्य भावः । ष्यञ् तद्धितः अकारान्तः
4 अणिमन् अणिमा स्त्रीलिङ्गः अणोर्भावः । इमनिच् तद्धितः नकारान्तः
5 उमा उमा स्त्रीलिङ्गः ओर्महेशस्य मा लक्ष्मीः । तत्पुरुषः समासः आकारान्तः
6 कात्यायनी कात्यायनी स्त्रीलिङ्गः कतस्यापत्यम् । यञ् तद्धितः ईकारान्तः
7 गौरी गौरी स्त्रीलिङ्गः गौरो वर्णोऽस्त्यस्याः । ङीष् स्त्रीप्रत्ययः ईकारान्तः
8 काली काली स्त्रीलिङ्गः कालो वर्णोऽस्त्यस्याः । ङीष् स्त्रीप्रत्ययः ईकारान्तः
9 हैमवती हैमवती स्त्रीलिङ्गः हिमवतोऽपत्यम् । अण्/ङीप् तद्धितः/स्त्रीप्रत्ययः ईकारान्तः
10 ईश्वरा ईश्वरा स्त्रीलिङ्गः ईष्टे । वरच् कृत् आकारान्तः