उमा

सुधाव्याख्या

ओर्महेशस्य मा लक्ष्मीः । 'उ मा’ इति मात्रा तपसे निषिद्धत्वाद्वा । आकारान्तादपि टाप् (४.१.४) 'टायाम् (२.४.३२) इति भाष्यप्रयोगात् । अजादित्वात् (४.१.४) वा । (‘उमा गौर्या हरिद्रायां कीर्तिकान्त्यतसीषु च') ।