अणिमा

सुधाव्याख्या

अणिमा लघिमा प्राप्तिः प्राकाम्यं महिमा तथा । ईशिता वशिता चैव तथा कामावशायिता । तत्र, अणोर्भावः । 'इमनिच् ' (५.१.१२२) । लघोर्भावः । प्राप्तिरङ्गुल्यग्रेण चन्द्रादेः । प्रकामस्य भावः इच्छानभिघातः । महतो भावः येन ब्रह्माण्डेऽपि न माति । ईशोऽस्यास्ति अत: (५.२.११५) इतीनि: । ईशिनो भावः तल् (५.१.११९) ।। प्रभुत्वम् । येन स्थावरा अप्याज्ञाकारिणः । वशोऽस्यास्ति । इनिः (५.२.११५) वशिनो भावो वशिता । यया भूमावप्युन्मज्जननिमज्जने । कामानवशेते । शीङः (अ० आ० से०) । णिनिः (३.२.७८) । कामावशायिनो भावः सत्यसंकल्पता । स्यतेः (दि० प० अ०) णिनिना (३.२.७८) दन्त्यमध्यं (कामावसायिता) कश्चिन्मन्यते ।।