कात्यायनी

सुधाव्याख्या

कतस्यापत्यम् । गर्गादित्वात् (४.१.१०५) यञ् । 'सर्वत्र लोहितादिकतन्तेभ्य' (४.१.१८) इति ष्फः । षित्वान्ङीष् । (४.१.४१) ‘कात्यायनो वररुचौ कात्यायनी तु पार्वती । कषायवस्त्रविधवार्धवृद्धमहिलापि च') ।


प्रक्रिया

कत + ङस् + यञ् - गर्गादिभ्यो यञ् 4.1.105
कत + यञ् - सुपो धातुप्रातिपदिकयोः 2.4.71
कत+य - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
कत्+य - यस्येति च 6.4.148
कात्य - तद्धितेष्वचामादेः 7.2.117
कात्य+ष्फ - सर्वत्र लोहितादिकतान्तेभ्यः 4.1.18
कात्य+फ - षः प्रत्ययस्य 1.3.6
कात्य+फ+ङीष् - षिद्गौरादिभ्यश्च 4.1.41
कात्य+फ+ई - हलन्त्यम् 1.3.3, लशक्वतद्धिते 1.3.8, तस्य लोपः 1.3.9
कात्य+आयन्+ई - आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम्‌ 7.1.2
कात्यायन् + ई - अकः सवर्णे दीर्घः 6.1.101
कात्यायनी+सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
कात्यायनी+स् -उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
कात्यायनी - हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल् 6.1.68