ईश्वरा

सुधाव्याख्या

ईष्टे । ‘ईश ऐश्वर्ये’ (अ० आ० से०) । 'स्थेशभास-’ (३.२.१७५) इति वरच् । टाप् (४.१.४) ॥ वनिपि (३.२.६५) । ‘वनो र च' (४.१.७) इति ङीब्रौ । अत 'ईश्वरी’ अपि । यद्वा अश्नुते । ‘अशूङ् व्याप्तौ (स्वा॰ आ० से०) 'अश्नोतेराशुकर्मणि वरट् ई चोपधायाः (उ० ५.५७) टित्त्वात् ।