अमरकोशः


श्लोकः

धाताब्जयोनिर्द्रुहिणो विरिञ्चिः कमलासनः । स्रष्टा प्रजापतिर्वेधा विधाता विश्वसृड्विधिः ॥ १७ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 धातृ धाता पुंलिङ्गः दधाति । तृच् कृत् ऋकारान्तः
2 अब्जयोनि अब्जयोनिः पुंलिङ्गः अब्जं योनिरस्य । बहुव्रीहिः समासः इकारान्तः
3 द्रुहिण द्रुहिणः पुंलिङ्गः द्रुह्यति दुष्टेभ्यः । इनच् उणादिः अकारान्तः
4 विरिञ्चि विरिञ्चिः पुंलिङ्गः विरचयतीति विरिञ्चिः । उणादिः इकारान्तः
5 कमलासन कमलासनः पुंलिङ्गः कमलमासनं यस्य । बहुव्रीहिः समासः अकारान्तः
6 स्रष्टृ स्रष्टा पुंलिङ्गः सृजति । तृच् कृत् ऋकारान्तः
7 प्रजापति प्रजापतिः पुंलिङ्गः प्रजानां पतिः । तत्पुरुषः समासः इकारान्तः
8 वेधस् वेधाः पुंलिङ्गः विदधाति । असि उणादिः सकारान्तः
9 विधातृ विधाता पुंलिङ्गः विशेषेण दधाति । तृच् कृत् ऋकारान्तः
10 विश्वसृज् विश्वसृट् पुंलिङ्गः विश्वं सृजति । तत्पुरुषः समासः जकारान्तः
11 विधि विधिः पुंलिङ्गः विधत्ते इति विधिः । कि कृत् इकारान्तः