स्रष्टा

सुधाव्याख्या

सृजति । तृच् (३.१.१३३) ॥ ‘सृजिदृशोः-' (६.१.५८) इत्यम् ॥


प्रक्रिया

धातुः - सृजँ विसर्गे


सृज् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
सृज्+तृच् - ण्वुल्तृचौ 3.1.133
सृज्+तृ -हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
सृ+अम्+ज्+तृ - सृजिदृशोर्झल्यमकिति 6.1.58
सृ+अ+ज्+तृ - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
स्र+ज्+तृ - इको यणचि 6.1.77
स्रष्+तृ - व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः 8.2.36
स्रष्+टृ -ष्टुना ष्टुः 8.4.41
स्रष्टृ+सु -स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
स्रष्ट्+अन्+सु -ऋदुशनस्पुरुदंसोऽनेहसां च 7.1.94
स्रष्ट्+आन्+सु - सान्तमहतः संयोगस्य 6.4.10
स्रष्टान्+स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
स्रष्टान् - हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल् 6.1.68
स्रष्टा - नलोपः प्रातिपदिकान्तस्य 8.2.7