विधिः

सुधाव्याख्या

विधत्ते इति विधिः । ‘उपसर्गे घोः किः’ (३.३.९२) बाहुलकात् (३.३.११३) कर्तरि । यद्वा विध विधाने’(तु० प० से०)। इन् 'इगुपधात्कित्' (उ० ४.१२०) इति कित्वान्न गुणः। (‘विधिर्बह्मविधानयोः। विधिर्वाक्ये च दैवे च प्रकारे कालकल्पयोः’) ॥