विश्वसृट्

सुधाव्याख्या

विश्वं सृजति । 'क्विप् (३.२.७६) । क्विन्प्रत्ययस्य (८.२.६२) इति कुत्वं तु न । रज्जुसृड्भ्याम् इति (७.२.११४) भाष्यप्रयोगात् । यद्वा सृजियज्योः पदान्ते षत्वविधेः कुत्वापवादत्वात् । यत्तु मुकुटेनोक्तम् क्विन्प्रत्यय इति तद्गुणसंविज्ञानपक्षे क्विन्नन्तस्य कुत्वम्, न क्विबन्तस्य इति । तन्न । प्रत्ययग्रहणवैयर्यात्, दृक् स्पृगित्याद्यसिद्धिप्रसङ्गाच्च, तत्पक्षस्यात्राग्रहणात् । यद्यपि अतद्गुणसंविज्ञानपक्षे तु क्विन् उपलक्षणत्वात्तदभावे क्विबन्तस्यापि कुत्वम् इत्युक्तम् । तदप्यस्मदुक्तप्रकारद्वयेन प्रत्युक्तम् ॥